top of page
गणेशपुराणम् पूर्वखण्डं अथवा उपासनाखण्डम् -5
१.०५६ षट्पञ्चाशत्तमोऽध्यायः
भृगुरुवाच ।
एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात् ॥ १॥
सोमकान्त उवाच ।
कथं श्रुतं ब्रह्ममुखाद्व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने ॥ २॥
भृगुरुवाच ।
एवं श्रुत्वा कथां व्यासोऽपृच्छद् ब्रह्माणमादरात् ।
स चापि कथयामास सादरं पृच्छतेऽनघ ॥ ३॥
व्यास उवाच ।
पुनः कथय मे ब्रह्मन् गणनाथकथां पराम् ।
तृष्णा मे वर्धते…