top of page

कौटिल्य अर्थशास्त्रम् (मूल) | Kautilya Arthashastram - 06

Chapt .   संधिकर्म -समाधिमोक्षः
07.17.01 शमः सन्धिः समाधिरित्येकोऽर्थः
07.17.02 राज्ञां विश्वास उपगमः शमः सन्धिः समाधिरिति
07.17.03 सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः
07.17.04 न इति कौटिल्यः
07.17.05 सत्यं शपथो वा परत्र इह च स्थावरः सन्धिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः
07.17.06 संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे
07.17.07 तस्यातिक्रमे शपथ…
bottom of page