top of page
महालक्ष्मी ललितास्तोत्रम् (लक्ष्मीनारायणसंहितायान्तर्गतम्) | MahaLakshmi Lalita stotra
श्रीमहालक्ष्मी ललितास्तोत्रम्
॥ ध्यानम् ॥
चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १॥
व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २॥
दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३॥
॥ श्रीदेवाः ऊचुः ॥
जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १॥
जय ब्…