top of page
लक्ष्मीसहस्रनामस्तोत्रम् २ (नारदीयोपपुराणान्तर्गतम्) | Lakshmi sahasra nama stotram 2
श्रीलक्ष्मीसहस्रनामस्तोत्रम् २
(नारदीयोपपुराणतः)
मित्रसह उवाच-
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
पावनानां हि महसां निदानं त्वं महामुने ॥ १॥
अतर्कितेनागमेन तव तुष्टोऽस्मि सर्वदा ।
हृदयं निर्वृतं मेऽद्य महादुःखौघपीडितम् ॥ २॥
देवा गृहेषु सन्तुष्टाः तारिताः पितरश्च ये ।
चिराय मे मनस्यस्ति संशयो बलवत्तरः ॥ ३॥
पृच्छामि त्वामहं तं वै उत्तरं दातुमर्हसि ।
इष्टं मया च बहुभिः यज्ञैस्सम्पूर्णदक्षिणैः ॥ ४॥
दानानि च महार्हाणि पात्रेषु…bottom of page
