top of page
गोदावरीस्तोत्रम् १ अथवा गोदाष्टकं १ (वासुदेवानन्दसरस्वतीविरचितम् वासुदेवमहेशात्मकृष्णावेणीधुनीस्वसा) | godavari stotram 1
श्रीगोदावरीस्तोत्रम् १
वासुदेवमहेशात्मकृष्णावेणीधुनीस्वसा ।
स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १॥
सुरर्षिवन्द्या भुवनेऽनवद्या याद्यात्र नद्याश्रितपापहन्त्री ।
देवेन या कृत्रिमगोवधोत्थदोषापनुत्यै मुनये प्रदत्ता ॥ २॥
वार्युत्तमं ये प्रपियन्ति मत्र्या यस्याः सकृत्तेऽपि भवन्त्यमत्र्याः ।
नन्दन्त ऊर्ध्वं च यदाप्लवेन नरा दृढेनैव सवप्लवेन ॥ ३॥
दर्शनमात्रेण मुदा गतिदा गोदावरी वरीवर्ती ।
समवर्तिविहायद्रोधासी मुक्तिः सती नरीनर्ति…
bottom of page
