top of page

यमुनाष्टकम् ७ (त्वयि स्नाता ध्याता वनमालिशास्त्रिविरचितम्) | yamunashtakam 7

श्रीयमुनाष्टकम् ७ 
त्वयि स्नाता ध्याता तव सलिलपाता नमयिता
     स्तुतेः कर्ता धर्ता तव रजसि मर्ता रविसुते ।
न चैवाख्यां वक्ता शमनसदने याति यमुने
     नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ १॥

मुरारातेः कायप्रतिमललितं वारि दधतीं
     कलिन्दाद्रेः श‍ृङ्गादपि पतनशीलां गतिमतीम् ।
स्वपादाब्जं ध्यातुर्जनिमरणशोकं वितुदतीं
     नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ २॥

कदम्बानां पुष्पावलिभिरनिशं रूषितजलां
     विधीन्द्राद्यैर्देवैर्मुनिजनकुलैः पूजितपदाम् ।
भ्रमद्गोगोधुग्भिर्विहगनिकरैर्भूषिततटां
…
bottom of page