top of page

बृहदम्बार्याशतकम् | Brihadambarya shatakam

बृहदम्बार्याशतकम् 

श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता ।
श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता ॥ १॥

कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् ।
कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा ॥ २॥

तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् ।
गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् ॥ ३॥

वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् ।
वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् ॥ ४॥

एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा ।
पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री ॥ ५॥

नासाभासा चम्पकशोभाक्षोभावहास्तु…
bottom of page