top of page
राज्ञीकवचम् (रुद्रयामलान्तर्गतम्) | Rajni kavacham
राज्ञीकवचम्
ॐ श्रीभैरव उवाच -
शृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् ।
त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥ १॥
मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥ २॥
पठनाद्धारणाद्देवि महापातकनाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली ।
ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥ ४॥
महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी ।
रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥ ५॥
श्रीराज्ञ्याः कवचस्यास्य पठनाद्धारणात्सदा ।
बहुनोक्तेन किं देवि कवचस्यास्य धारणात्…