top of page

शारदास्तोत्रम् २ (वाग्देवते ! भक्तिमतां स्वशक्तिकलापवित्रा) | sharada stotram 2

श्रीशारदास्तोत्रम् २ 
वाग्देवते ! भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे ।
बोधं विशुद्धं भवती विधत्तां कलापवित्रा सितविग्रहा मे ॥ १॥

अङ्कप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहन्तुम् ।
अङ्कप्रविणा कलहंसपत्रा सरस्वती शश्वदपोहतां वः ॥ २॥

ब्राह्मि विजेषाष्ठ विनिन्द्रकुन्दप्रभावदाता घनगर्जितस्य !
स्वरेण जैत्री ऋतुना स्वकीय प्रभावदाता घनर्गर्जितस्य ॥ ३॥

मुक्ताक्षमालालसदौषधीशाऽभिशूजजवला भाति करे त्वदीये ।
मुक्ताक्षमालालसदौषधीशा यां प्रेक्ष्य भेजे मुनयोऽपि हर्षम् ॥ ४॥

ज्ञानं प्रदातुं…
bottom of page