top of page
सरस्वतीस्तोत्रं वाणीस्तवनं च (याज्ञवल्क्योक्तम्, ब्रह्मवैवर्ते एवं देवीभागवते) | SarasvatIstotra by Yajnyavalkya
श्रीसरस्वतीस्तोत्रं अथवा वाणी स्तवनं याज्ञ्यवल्क्योक्त
(देवीभागवततश्च)
अथ पञ्चमोऽध्यायः ।
नारायण उवाच ।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुह्खार्तो रविस्थानं च पुण्यदम् ॥ २॥
सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥ ३॥
सूर्यास्तं पाठयामास वेदवेदाङ्गमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च…