top of page

रुद्राणीस्तोत्रम् अथवा रुद्रशक्तिलाकिनीस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Rudrani stotram from Rudrayamala

श्रीरुद्राणीस्तोत्रम् अथवा श्रीरुद्रशक्तिलाकिनीस्तोत्रम् 

आनन्दभैरवी उवाच
श‍ृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम् ।
श्रुत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके ॥ १॥

महासिद्धो भवेदेव महाकालवशो भवेत् ।
त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा ॥ २॥

रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत् ।
तच्छ्रुत्त्वा मुनयः सर्वे योगिनो योगदर्शकाः ॥ ३॥

सर्वे देवाः सर्वलोकाधिपाः स्युः प्राणरक्षकाः ।
एतत्स्तवनमात्रेण ब्रह्मा ब्रह्मत्वमाप्नुयात् ॥ ४॥

विष्णुर्विष्णुत्वमाप्नोति देवत्वं सर्वदेवताः ।
इदानीं श‍ृणु तत्स्तोत्रमष्टाङ्गयोगसाधनम् ॥…
bottom of page