top of page

तुलस्युपनिषत् | Tulasi upanishad

तुलस्युपनिषत् 

अध तुलस्युपनिषदं व्याख्यास्यामः । नारद ऋषिः ।
अथर्वाङ्गिराश्छन्दः । अमृता तुलसी देवता ।
सुधाबीजम् । वसुधा शक्तिः । नारायणः कीलकम् ।
श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनसं ब्रह्माथर्वप्राणां
कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां
अनन्तरसभोगदां वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हिणीं
दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं अभिवन्दनाद् रोगनाशिनीं सेवनात्
मृत्युनाशिनीं वैकुण्ठार्चनात् विपद्धन्त्रीं, भक्षणात् वयुनप्रदां ,
प्रादक्षिण्यात् दारिद्र्यनाशिनीं, मूलमृल्लेपनात् महापापभञ्जिनीं
घ्राणतर्पणात् अन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति…
bottom of page