top of page
अन्नपूर्णाकवचम् (शङ्कराचार्यविरचितम्) | Annapurnakavacham |
अन्नपूर्णाकवचम्
द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः ।
अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥ १॥
पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् ।
स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥ २॥
देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता ।
स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥ ३॥
धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः ।
ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा ।
सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥ ४॥
अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् ।
सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥…bottom of page
