top of page

अन्नपूर्णासहस्रनामस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Shri Annapurna Sahasranamastotram

श्रीअन्नपूर्णासहस्रनामस्तोत्रम् 
श्रीरुद्रयामले

कैलासशिखरासीनं देवदेवं महेश्वरम् ।
प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १॥

श्रीपार्वत्युवाच ।
अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी ।
नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ २॥

श्रीशिव उवाच ।
श‍ृणु देवि वरारोहे जगत्कारणि कौलिनि ।
आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ ३॥

सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः ।
अन्नदायास्स्तवं  दिव्यं यत्सुरैरपि वाञ्छितम् ॥ ४॥

कथयामि तव स्नेहात्सावधानाऽवधारय ।
गोपनीयं प्रयत्नेन स्तवराजमिदं शुभम् ॥ ५॥

न प्रकाश्यं त्वया भद्र…
bottom of page