top of page

अन्नपूर्णास्तवः | Annapurnastavah

अन्नपूर्णास्तवः 
विश्वेश्वरीं वरेण्यां विश्वाश्रयणीं विशिष्टफलदात्रीम् ।
स्तोष्यामि वाञ्छिताप्त्यै स्तोत्रैरन्नाधिनायिकामम्बाम् ॥ १॥

काञ्चनरत्नविचित्रां दवीं दधतीं तथान्नपात्रं च ।
कष्टदरिद्रार्तिहरामम्बां प्रणतोऽस्मि सम्पदां वृद्ध्यै ॥ २॥

सर्वाभिलाषपूरणकल्पकलतिकान्नपूर्णाख्या ।
दारिद्र्यदोषमुग्रं शमयतु सकलार्थवृद्धिदानेन ॥ ३॥

अन्नाधिनायिकायाः कृपाघना दुःखधर्मपरितप्ते ।
मयि दारिद्र्यऋणघ्न्या वर्षतु धनधान्यधारया सुचिरम् ॥ ४॥

वेदादिर्भुवनाहृद्भगवति माहेश्वरीति चान्नान्ते ।
पूर्णेऽग्निवल्लभा स्यादुक्तोऽयं मनुरशेषफलदायी ॥ ५॥

गुरुकारुण्याल्लब्धं मन्त्रमिदं दिनमुखेषु भक्तधिया ।
यो जपति तस्य सिद्धिर्न दुर्लभा जायते…
bottom of page