top of page

अम्बान्नपूर्णास्तुतिपञ्चकम् (उमेश्वरानन्दतीर्थविरचितम्) | ambannapurnastuti panchakam

अम्बान्नपूर्णास्तुतिपञ्चकम् 
अम्बान्नपूर्णे जगदम्बिके शिवे
       दुर्गेभवानी शिवप्राण वल्लभे ।
अनाथनाथेनिजभृत्यवत्सले
       माम्पाहि नित्यं पतितं त्वदाश्रये ॥ १॥

हे दुर्गहन्त्रीजनदुःखनाशिनी
       मामुद्धराशु चरणौ प्रदाय हि ।
भुक्तिञ्चमुक्तिञ्चददातुनः शिवे
       पादाब्जरेणुं शिरसिनिधेहिवः ॥ २॥

शिवस्य वामाङ्गमलङ्कृताङ्गी
       त्वमन्नपूर्णा शुभदायिनीञ्च ।
शम्भो सदा प्राणसमप्रियात्वं
       मनन्यभावां प्रणमामि नित्यम् ॥ ३॥

मातान्नपूर्णे जनमन्नदात्रीं
       सुरासुरैसर्वजनैः सुपूजिताम् ।
भिक्षान्नदत्त्वा त्रिजगत् सुपालिनीं
       अम्बान्नपूर्णे प्रणमामिनित्…
bottom of page