top of page
भगवती पुरातनपुरेश्वरी स्तवः (सुब्बरामविरचितः) | Bhagavati Puratanapureshvari Stava
भगवती पुरातनपुरेश्वरीस्तवः
ॐ अन्नपूर्णेश्वर्यै नमः ।
पुराणपुरनायिके सुरवरेन्दुचूडप्रिये
सुरासुरनमस्कृते कुरु कृपामनाथे मयि ।
जरामरणनाशिनीमधिगतास्सुरां वै सुराः
चराचरसवित्रि ते चरणसेवयैवामराः ॥ १॥
पुरातनपुरालयप्रियविहारलोले, शिवे,
पुरान्तकमनःप्रिये, पुरुषसोदरि, श्रीपुरे ।
सुरारिकुलमर्दिनि त्रिदिववीरसंरक्षिणि,
स्फुरद्गुरुकृपानिधे कुरु कृपामनाथे मयि ॥ २॥
पुराणनिगमागमप्रकरबोधितप्राभवे,
पुराणपुरुषार्चिते, शरणमम्ब तेऽङ्घ्रिद्वयम् ।
पुराणसुकृतव्रजप्रकटलब्धसन्दर्शने,
पुराणपुरनायिके कुरु कृपामनाथे मयि ॥ ३॥
पुरा किल सुरेश्वरि, त्रिदशदुःखसम्भेदने
पुरारिमुखदेवतानिचयलब्धरूपाऽभवः ।
पुरापि भवती …bottom of page
