top of page
अजपाजपस्तोत्रम् अथवा दत्तात्रेय अष्टचक्रबीजस्तोत्रम् | Ajapajapastotram or ashtachakrabIjastotram
अजपाजपस्तोत्रम्
ॐ तत्सत् ॥
ॐ ब्रह्मणे नमः ॥
मूलाधारे वारिजपत्रे चतरस्रे
वं शं षं सं वर्णविशालं सुविशालम् ।
रक्तं वर्णे श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १॥
स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं
बालां तं तद्वर्णमयाभं सुविशालम् ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २॥
नाभौपद्मं पत्रदशाढ्यं ड फ वर्णं
लक्ष्मीकान्तं गरुडारूढं नरवीरम् ।
नीलं वर्णं निर्गुणरूपं निगमान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥…bottom of page
