top of page
ज्ञानेश्वरस्तोत्रम् (वरदानन्दभारतीविरचितम्) | jnaneshvarastotram
श्रीसद्गुरुज्ञानेश्वरस्तोत्रम्
ॐ श्री ।
श्रीशङ्कर ।
श्रीसद्गुरुज्ञानेश्वरस्तोत्रम् ।
ॐ नमो भगवते श्रीज्ञानदेवाय ।
सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् ।
ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः ॥ १॥
वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् ।
निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः ॥ २॥
निर्मलं सदयं शान्तं प्रणताखिलमङ्गलम् ।
ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः ॥ ३॥
भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः ।
सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ॥ ४॥
आविर्भूतो हरिः साक्षात्…