top of page

ॐकारस्तोत्रम् (तन्त्रसारान्तर्गतम् ओङ्कारमादिस्वरूपं नमामि) | OMkarastotram

ओङ्कारस्तोत्रं 

अकारात्मकः सृष्टिकर्ता स्वयम्भूरुकारात्मकः पालकश्चक्रपाणिः ।
मकारात्मकः शङ्करः शं तनोति तमोङ्कारमादिस्वरूपं नमामि ॥ १॥

अकारे स्थितं देहिनां स्थूलकर्म उकारे स्थितः सूक्ष्मसद्भक्तिभावः ।
मकारे स्थितं कारणं ज्ञानपूर्णं तमोङ्कारमादिस्वरूपं नमामि ॥ २॥

अकाराश्रितं विश्वमूलाश्रयं सत् उकाराश्रितं सर्वभूतान्तरं चित् ।
मकाराश्रितः शुद्ध आनन्दकन्दस्तमोङ्कारमादिस्वरूपं नमामि ॥ ३॥

अकारस्तु सट्त्वं स्वयं ब्रह्मसंस्थं उकारो रजः क्षत्रिये सन्निविष्टम् ।
मकारो विषां दृश्यते तत्तमः स्यात्तमोङ्कारमादिस्वरूपं…
bottom of page