top of page
आयाहि देवि | Ayahidevi
आयाहि देवि ! जगतां परिपात्रि ! सौख्यदा दुर्गे (हरेकृष्णमेहेरविरचितम्) | Ayahidevi
आयाहि देवि ! जगतां परिपात्रि ! सौख्यदा
दुर्गे ! महेश्वरि ! मृगेश्वर-पृष्ठ-मण्डना ।
वन्दे सुरम्य-चरणाम्बुजमम्बिके ! सदा
त्वं शङ्करी भगवती हर सर्व-सङ्कटम् ॥ १॥
दुर्नीति-दैत्य-कबलै-र्वसुधा मलीमसा
कात्यायनि ! प्रमथिता व्यथितास्ति नीरसा ।
तामुद्धर त्वमिह वै शरण-प्रदायिनी
त्रायस्व देवि ! सुतरां तुहिनाद्रि-नन्दिनी ॥ …