top of page
कनकदुर्गानन्दलहरी (विद्याशङ्करविरचितम्) | Kanakadurganandalahari
श्रीकनकदुर्गाऽऽनन्दलहरी
वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरम् ।
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥
शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे
शिरोभिर्वेदानां चिरविनुतकल्याणचरिते ।
स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥
नगाधीशट्कन्ये नलिनदळसङ्काशनयने
सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । var श्लाघ्यचरिते
अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते
जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥
निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः
स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः ।
असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते
दया कर्त…