top of page
कात्यायनीस्तुतिः पाण्डवाःकृता | Katyayanistutih Pandavahkrrita
पाण्डवाःकृता कात्यायनीस्तुतिः
पाण्डवा ऊचुः ।
कात्यायनि त्रिदशवन्दितपादपद्मे
विश्वोद्भवस्थितिलयैकनिदानरूपे ।
देवि प्रचण्डदलिनि त्रिपुरारिपत्नि
दुर्गे प्रसीद जगतां परमार्तिहन्त्रि ॥ १॥
त्वं दुष्टदैत्यविनिपातकरी सदैव
दुष्टप्रमोहनकरी किल दुःखहन्त्री ।
त्वां यो भजेदिह जगन्मयि तं कदापि
नो बाधते भवसु दुःखमचिन्त्यरूपे ॥ २॥
त्वामेव विश्वजननीं प्रणिपत्य विश्वं
ब्रह्मा सृजत्यवति विष्णुरहोत्ति शम्भुः ।
काले च तान्सृजसि पासि विहंसि मात
स्त्वल्…