top of page

कात्यायनीस्तुतिः श्रीरामकृत (महाभागवतपुराणे) | Katyayanistutih

कात्यायनीस्तुतिः 

श्रीराम उवाच -
नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि ।
प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥

सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि ।
दुष्टजृम्भिणि सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ २॥

त्वमेका परमाशक्तिः सर्वभूतेष्ववस्थिता ।
दुष्टान्संहर सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ ३॥

रणप्रिये रक्तभक्षे मांसभक्षणकारिणि ।
प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४॥

खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे ।
ये त्वां स्मरन्ति दुर्गेषु तेषां…