top of page
कुमारीकवचम् (रुद्रयामलोत्तरतन्त्रान्तर्गतम्) | Kumarikavacham from Rudrayamala uttaratantra
कुमारीकवचं रुद्रयामलोत्तरतन्त्रान्तर्गतम्
आनन्दभैरव उवाच --
अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् ।
त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् ॥ १॥
पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः ।
शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥ २॥
महातेजोमयो वह्निर्धर्मराजो भयानकः ।
वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥ ३॥
सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः ।
धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥ ४॥
न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः ।
एतत्कवचपाठेन सर्वे भूपा…bottom of page
