top of page
कुमारीसहस्रनामस्तोत्रम् | Kumari Sahasranamastotram
श्रीकुमारीसहस्रनामस्तोत्रम्
आनन्दभैरव उवाच
वद कान्ते सदानन्दस्वरूपानन्दवल्लभे ।
कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥ १॥
अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् ।
यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥ २॥
तदा वदस्व कौमारीकृतकर्मफलप्रदम् ।
महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥ ३॥
आनन्दभैरवी उवाच
महापुण्यप्रदं नाथ शृणु सर्वेश्वरप्रिय ।
अष्टोत्तरसहस्राख्यं कुमार्याः परमाद्भुतम् ॥ ४॥
पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् ।
सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् ॥ ५॥
अणिमाद्यष्टसिद्ध्यङ्गं सर्वानन्दकरं परम्…bottom of page
