top of page

चण्डिकास्तुतिः | Chandikastutih

श्रीचण्डिकास्तुतिः 
विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां
      पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम्  ।
विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां
      भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥

न लक्ष्य-घटनाश्रयां न च  विशेष-वेश्मावहां
      घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम्  ।
नमज्जन-मनोरथारचन-चारु-चिन्तामणिं
      भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥

निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी-
      प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् ।
त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं,
      भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ३॥

अनुग्रह-रसच्छटामिव सरःश्रियं यान्तिके
      विकासयति, पद्मिनीदल-सहस्रसन्दानिताम् ।
प्रतिक्षण-समुन्मिषत्प्रमद-मेदुरां तामहं,
      भजामि भयखण्डिकां सपदि चण्डि…