top of page
चण्डीरहस्य (नीलकण्ठ दीक्षितविरचितम्) | Chandirahasya by Nilakanthadikshita
श्रीचण्डीरहस्यम्
यच्छक्तिलेशसकृदर्पणपात्रभाव-
मात्रादपि द्रुहिणशौरिमहेश्वराणाम् ।
प्राप्तो यदि श्रुतिशतैः परमात्मभाव-
स्तामम्ब देवि भवती किमिति स्तुवन्तु ॥ १॥
कृत्वा मुखं पशुपतिर्भवती किलैकां
निर्माति पालयति हन्ति जगन्ति देवः ।
तज्जामिताविपरिवृत्तिकृते तमेव
शम्भुं मुखं कृतवती भवतीति मन्ये ॥ २॥
विश्वं नियच्छति विशृङ्खलचेष्टितो यः
सोऽपि त्वया नियमनीय इति स्फुटं नः ।
वैवस्वतं चिकुरभावजुषं यदम्ब
बध्नासि वेणिकबरीग्रथनादिभेदैः ॥ ३॥
…bottom of page
