top of page

चामुण्डास्तोत्रम् २ (स्कन्दपुराणान्तर्गतम् जय सर्वगते देवि) | Chamundastotram 2

श्रीचामुण्डास्तोत्रम् २
श्रीगणेशाय नमः ।
श्रीभैरवाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।

जय सर्वगते देवि चर्ममुण्डधरे वरे ।
जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १॥

कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ।
त्रिनेत्रे त्र्यम्बकाभीष्टे जय देवि सुरार्चिते ॥ २॥

भीमरूपे सुरूपे च महाविद्ये महाबले ।
महोदये महाकाये जयदेवि महाव्रते ॥ ३॥

नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ।
विकरालि महाकालि जय प्रेतजनानुगे ॥ ४॥

शवयानरते रम्ये भुजङ्गाभरणान्विते ।
पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे…
bottom of page