top of page

चामुण्डेश्वरीमङ्गलम् | ChamundeshvarImangalam

श्रीचामुण्डेश्वरीमङ्गलम् 
श्रीशैलराजतनये चण्डमुण्डनिषूदिनि ।
मृगेन्द्रवाहने तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १॥

पञ्चविंशति सालाढ्य श्रीचक्रपुरनिवासिनि ।
बिन्दुपीठस्थिते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २॥

राजराजेश्वरि श्रीमद्कामेश्वरकुटुम्बिनि ।
युगनाथ तते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३॥

महाकालि महालक्ष्मि महावाणि मनोन्मणि ।
योगनिद्रात्मके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ४॥

मन्त्रिणि दण्डिनि मुख्ययोगिनि गणसेविते ।
भण्डदैत्यहरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ५॥

निशुम्भमहिषाशुम्भेरक्तबीजादिमर्दिनि ।
महामाये शिवे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ६॥

कालरात्रि…
bottom of page