top of page
तीव्रचण्डिकास्तोत्रम् (मार्कण्डेयपुराणान्तर्गतम्) | Tivrachandikastotra
तीव्रचण्डिकास्तोत्रम्
अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् ।
॥ ध्यानम् ॥
चामुण्डा प्रेतगा विकृता चाऽहि भूषणा
दंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी ।
दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरे
अङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके ॥
खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती
या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा । var शुक्लनासा द्विजगणनमिता
ज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा var साधयित्री
सा देवी दिव्यमूर्तिः प्र…