top of page
दाक्षायणीस्तोत्रम् | Dakshayani stotram
श्रीदा क्षायणीस्तोत्रम्
गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी
श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता
रम्भोरूः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १॥
दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी
लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २॥
मध्येसुधाब्धि मणिमण्टपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि दृढबुद्धतलेडजिह्वां (?) ॥ ३॥
सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः
ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिर…bottom of page
