top of page
दीपदुर्गाकवचम् | Dipadurga kavacham
श्रीदीपदुर ्गा कवचम्
श्रीभैरव उवाच ।
शृणु देवि जगन्मातर्ज्वालादुर्गां ब्रवीम्यहम् ।
कवचं मन्त्रगर्भं च त्रैलोक्यविजयाभिधम् ॥ १॥
अप्रकाश्यं परं गुह्यं न कस्य कथितं मया ।
विनामुना न सिद्धिः स्यात्कवचेन महेश्वरि ॥ २॥
अवक्तव्यमदातव्यं दुष्टाया साधकाय च ।
निन्दकायान्यशिष्याय न वक्तव्यं कदाचन ॥ ३॥
श्री देव्युवाच ।
त्रैलोक्यनाथ वद मे बहुधा कथितं मया ।
स्वयं त्वया प्रसादोऽयं कृतः स्नेहेन मे प्रभो…bottom of page
