top of page

दुर्गाकवचम् २ (ब्रह्माण्डमोहनाख्यम् दुर्गेति चतुर्थ्यन्तः) | Brahmandamohanakhyam Durgakavacham 2

ब्रह्माण्डमोहनाख्यं दुर्गाकवचम् 
श्रीगणेशाय नमः ।
नारद उवाच ।
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ।
ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥

नारायण उवाच ।
श‍ृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् ।
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥

ब्रह्मणा कथितं पूर्वं धर्माय जाह्नवीतटे ।
धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥

त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ।
ममोच ब्रह्मा यद्धृत्वा…
bottom of page