top of page
दुर्गाचन्द्रकलास्तुतिः (अपय्यदीक्षितविरचिता) | Durga Chandrakala Stuti
दुर्गाचन्द्रकलास्तुतिः
वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे ।
हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥ १॥
अभ्यर्थनेन सरसीरुहसम्भवस्य
त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।
विश्वेश्वरी विपदपागमने पुरस्तात्
माता ममास्तु मधुकैटभयोर्निहन्त्री ॥ २॥
प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः
एकीभवद्भिरुदिताखिललोकगुप्त्यै ।
सम्पन्नशस्त्रनिकरा च तदायुधस्थैः
माता ममास्तु महिषान्तकरी पुरस्तात् ॥ ३॥
प्रालेयशैलतनया तनुकान्तिसम्पत्-
कोशोदिता कुवलयच्छविचारुदेहा ।
नारायणी नमदभीप्सितकल्पवल्ली
सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥ ४॥
विश्वेश्वरीति महिषान्तकरीति यस्याः
नारायणीत्यपि च नामभिरङ्कितानि ।…bottom of page
