top of page
दुर्गाध्यानम् १ | Durga dhyanam 1
श्रीदुर्गाध ्यानम्
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥ १॥
मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥
हेमप्रख्यामिन्दुखण्डार्धमौलिं
शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥ ३॥
उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे-
ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना ।
चर्मास्यु…bottom of page
