top of page

दुर्गाध्यानम् २ (जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम्) | Durgadhyanam 2

श्रीदुर्गाध्यानम् 
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १॥

       अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
       नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ २॥

सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३॥

       मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
       त्रिशूलं दक्षिणे पाणौ खड्गं चक्रं क्रमादधः ॥ ४॥

तीक्ष्णबाणं तथा शक्तिं दक्षिणे सन्निवेशयेत् ।
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥ ५॥

       घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
       अधस्त…
bottom of page