top of page
दुर्गापञ्चकम् (हरेकृष्णमेहेरविरचितम्) | Durgapanchakam
श्रीदुर्गापञ्चकम्
मातर्नमस्ते जगदम्बिके शिवे !
दुर्गा सदा दुर्गतिनाशिनीश्वरी ।
त्वमादिशक्तिर्भुवनेषु कीर्त्तिता
ब्राह्मी भवानी च विभासि वैष्णवी ॥ १॥
संहारणं त्वं कुरु सिंहवाहना
हिंसापराणां महिषादि-रक्षसाम् ।
संसार-सन्मार्ग-विधौ कृपामयी
काली समेषां दह पाप-कल्मषम् ॥ २॥
आयाहि दुर्गे ! वरदा महायुधा
हे दुष्ट-विध्वंसिनि ! धर्मधारिणी ।
गङ्गाधरार्धाड्गि ! निधेहि मङ्गलं
तवानुकम्पा हृदयं पुनातु नः ॥ ३॥
अस्मा…bottom of page
