top of page
दुर्गापञ्चरत्नम् (महापेरियावा चन्द्रशेखरेन्द्रसरस्वतीविरचितम्) | Durga pancharatnam
दुर्गा पञ्चरत्नम्
ते ध्यानयोगानुगताः अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम् । var देवात्मशक्तिं
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ १॥
देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षिलोकस्य पुरः प्रसन्ना ।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ २॥
परास्य शक्तिः विविधैव श्रूयसे
श्वेताश्ववाक्योदितदेवि दुर्गे ।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ३॥
देवात्मशब्देन शिवात्मभूता
…