top of page

दुर्गाप्रातःस्मरणस्तोत्रम् (प्रकाशानन्दपुरीविरचितम्) | Durga pratah smaranam

श्रीदुर्गाप्रातःस्मरणस्तोत्रम् 

प्रातः स्मरन्निदमहं गिरिराजकन्या-
     मार्त्तार्त्तिमोचनचणस्मरणां विनीतः ।
आवेदयामि करुणामृतपूरवर्षै-
     राप्लावयाशु जनमार्त्तमिमं प्रपन्नम् ॥ १॥

प्रातर्नमन्निदमहं विनिवेदयामि
     श्रीमेनकेक्षणचकोरसुधांशुलेखाम् ।
शिष्टान्यहानि मम सन्तु पवित्रितानि
     त्वत्पादचिन्तनसमाहितहृद्विलासैः ॥ २॥

प्रातर्भजन्नहमवाप्तसमस्तकामां
     कामान्तकारिमहिलां महितां हिताय ।
मातर्जहीहि मम वाञ्छितसंविधाने-
     ऽवज्ञां कृताञ्जलिरिदं विनिवेदयामि ॥ ३॥

श्लोकत्रयं विरचितं यमिना प्रबोधा-
     नन्देन नन्दयतु शश्वदिदं प्रसन्नम् ।
श्रीमन्महेशनयनोन्मदभृङ्गमाला
     लास्यास्पदाम्बुजमुखीकरुणैकपात्रान् ॥ ४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं
     दुर्गाप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥

bottom of page