top of page
दुर्गाष्टकम् १ (अनन्तानन्दसरस्वतिविरचितं दुर्गे परेशि शुभदेशि) | Durgashtakam 1
दुर्गाष्टकम्
दुर्गे परेशि शुभदेशि परात्परेशि
वन्द्ये महेशदयिते करुणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥
दिव्ये नुते श्रुतिशतैर्विमले भवेशि
कन्दर्पदाराशतसुन्दरि माधवेशि ।
मेधे गिरीशतनये नियते शिवेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥
रासेश्वरि प्रणततापहरे कुलेशि
धर्मप्रिये भयहरे वरदाग्रगेशि ।
वाग्देवते विधिनुते कमलासनेशि
कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥
पूज्ये महावृषभ…bottom of page
