top of page

दुर्गाष्टकम् २ (कात्यायनि महामाये) | Durgashtakam 2

दुर्गाष्टकम् 
कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १॥

वसुदेवसुते कालि वासुदेवसहोदरि ।
वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २॥

योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि…
bottom of page