top of page

दुर्गासहस्रनामस्तोत्रम् २ (तन्त्रराजतन्त्रार्गतम् श्रीदुर्गा दुर्गतिहरा) | Shri Durga Sahasranamastotram 2 from TantrarAjatantra

श्रीदुर्गासहस्रनामस्तोत्रम् २ 
तन्त्रराजतन्त्रे

पूर्वपीठिका
श्रीशिव उवाच -
श‍ृणु देवि प्रवक्ष्यामि दुर्गानामसहस्रकम् ।
यत्प्रसादान्महादेवि चतुर्वर्गफलं लभेत् ॥ १॥

पठनं श्रवणं चास्य सर्वाशापरिपूरकम् ।
धनपुत्रप्रदं चैव बालानां शान्तिकारकम् ॥ २॥

उग्ररोगप्रशमनं ग्रहदोषविनाशनम् ।
अकालमृत्युहरणं वाणिज्ये विजयप्रदम् ॥ ३॥

विवादे दुर्गमे युद्धे नौकायां शत्रुसङ्कटे ।
राजद्वारे महाऽरण्ये सर्वत्र विजयप्रदम् ॥ ४॥

॥ विनियोगः ॥

ॐ अस्य श्रीदुर्गासहस्रनाममालामन्त्रस्य श्रीनारद ऋषिः ।
गायत्री छन्दः । श्रीदुर्गा देवता ।…
bottom of page