top of page
दुर्गासहस्रनामस्तोत्रम् ४ (रुद्रयामलान्तर्गतम् ॐ ह्रीं दुं जगदम्बा) | Durga sahasranama stotram from Rudrayamala
श्रीदुर्गासहस्रनामस्तोत्रम्
श्री भैरव उवाच -
अधुना शृणुवक्ष्यामि दुर्गासर्वस्वमीश्वरी ।
रहस्यं सर्व देवानां दुर्लभं जन्मिनामपि ॥ १॥
श्रीदुर्गातत्त्वमुद्दिष्टसारं त्रैलोक्यकारणम् ।
मन्त्रनामसहस्रं च दुर्गायाः पुण्यदं परम् ॥ २॥
यं पठित्वा शिवे धृत्वा देवीनामसहस्रकम् ।
इह भोगी परत्रापि जीवन्मुक्तो भवेन्नरः ॥ ३॥
इदं नामसहस्रं ते मन्त्रगर्भं रहस्यकम् ।
अश्वमेधायुतात्पुण्यं लोके सौभाग्यवर्धनम् ॥ ४॥
श्रेयस्करं विश्ववन्द्यं सर्वदेवनमस्कृतम् ।
गुह्यं गोप्यतमं देवि पठनात् सिद्धिदायकम् ॥…