top of page

दुर्गास्तवः २ (वादिराज विरचितः) | Durgastavaa 2 Vadiraja

श्रीदुर्गास्तवः 
सन्नद्धसिंहस्कन्धस्थां स्वर्णवर्णां मनोरमाम् ।
पूर्णेन्दुवदनां दुर्गां वर्णयामि गुणार्णवाम् ॥ १॥

किरीटहारग्रैवेयनूपुराङ्गदकङ्कणैः ।
रत्नकाञ्च्या रत्नचित्रकुचकञ्चुकतेजसा ॥ २॥

विराजमाना रुचिराम्बरा किङ्किणिमण्डिता ।
रत्नमेखलया रत्नवासोपरि विभूषिता ॥ ३॥

वीरश‍ृङ्खलया शोभिचारुपादसरोरुहा ।
रत्नचित्राङ्गुलीमुद्रा रत्नकुण्डलमण्डिता ॥ ४॥

विचित्रचूडामणिना रत्नोद्यत्तिलकेन च ।
अनर्घ्यनासामणिना शोभिताऽऽस्यसरोरुहा ॥ ५॥

भुजकीर्त्या रत्नचित्रकण्ठसूत्रेण चाङ्किता ।
पद्माक्षिणी सुबिम्बोष्ठी पद्मगर्भादिभिः स्तुता ॥ ६॥

कबरीभारविन्यस्तपुष्पस्तबकविस्तरा ।
कर्णनीलोत्पलरुचा लसद् भ्रूमण्डलत्विषा ॥ ७॥

कुन्तलानां च सन्तत्या शोभमाना शुभप्रदा ।
तनुमध्या…
bottom of page