top of page

दुर्गास्तोत्रम् ०१ (परशुरामकृतं ब्रह्मवैवर्तपुराणान्तर्गतम् श्रीकृष्णस्य च गोलोके) | Durgastotram 1 by ParashuRama

श्रीपरशुरामकृतं दुर्गास्तोत्रम् 

परशुराम उवाच -
श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च ।
आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ १॥

सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता ।
वह्निशुद्धांशुकाधाना सुस्मिता सुमनोहरा ॥ २॥

नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता ।  var  सिन्दूरबिन्दुशोभिता ।
ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ ३॥

अहोऽनिर्वचनीया त्वं चरुमूर्तिं च बिभ्रती ।
मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधिः स्वयम् ॥ ४॥

मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् ।
बालैस्सम्भूय सहसा सस्मिता धाविता पु…
bottom of page