top of page
दुर्गास्तोत्रम् ०२ (ब्रह्मवैवर्तपुराणान्तर्गतम् त्वमेव सर्वजननी) | Durgastotram 2 from Bhavasihya Purana
दुर्गास्तोत्रम्
श्रीगणेशाय नमः । श्रीदुर्गायै नमः ।
नारायण उवाच ।
पुरा स्तुता सा गोलोके कृष्णेन परमात्मना ।
सम्पूज्य मधुमासे च संप्रीते रासमण्डले ॥ १॥
मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा ।
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥ २॥
चतुर्थे संस्तुता देवी भक्त्या च त्रिपुरारिणा ।
पुरा त्रिपुरयुद्धे च महाघोरतरे मुने ॥ ३॥
पञ्चमे संस्तुता देवी वृत्रासुरवधे तथा ।
शक्रेण सर्वदेवैश्च…bottom of page
