top of page

दुर्गास्तोत्रम् ०३ (रुद्रयामलान्तर्गतम् भैरवप्रोक्तम् दूर्वानिभां त्रिनयनां) | Durgastotram 3 from Rudrayamala

श्रीदुर्गास्तोत्रम् रुद्रयामलान्तर्गतम् 

अथ दुर्गास्तोत्रम् ।
श्रीभैरव उवाच
अधुना देवि वक्ष्यामि दुर्गास्तोत्रं मनोहरम् ।
मूलमन्त्रमयं दिव्यं सर्वसारस्वतप्रदम् ॥ १॥

दुर्गार्तिशमनं पुण्यं साधकानां जयप्रदम् ।
दुर्गाया अङ्गभूतं तु स्तोत्रराजं परात्परम् ॥ २॥

श्रीदुर्गास्तोत्रराजस्य ऋषिर्देवो महेश्वरः ।
छन्दोऽनुष्टुप् देवतापि श्रीदुर्गाष्टाक्षरा शिवे ॥ ३॥

दुं बीजञ्च परा शक्तिः नमः कीलकमीश्वरि ।
धर्मार्थकाममोक्षार्थे श्रीदुर्गास्तोत्रपाठे विनियोगः ॥ ४॥

अथ ध्यानम्
दूर्वानिभां त्रिनयनां विलसत्किरीटां
     शङ्खाब्जखड्गशरखेटकशूलचापाम् ।
सन्तर्जनीं च द…
bottom of page