top of page

दुर्गास्तोत्रम् ०५ (श्री अरविन्दकृतम् मातर्दुर्गे, सिंहवाहिनि) | Durgastotram 5 Aurobindo

श्रीअरविन्दकृतं दुर्गास्तोत्रम् 
ॐ मातर्दुर्गे! सिंहवाहिनि सर्वशक्तिप्रदायिनि मातः शिवप्रिये तव
शक्त्यंशजा वयं भारतवर्षस्य युवानः त्वन्मन्दिरे समासीनाः त्वां
प्रार्थयामहे ॥

श‍ृणु मातः आविर्भव भारते वर्षे प्रकाशमाना भव ।
मातर्दुर्गे! युगे युगे मानवीं तनुं धृत्वा जन्मनि जन्मनि तवैव
कर्म कृत्वा च त्वदानन्दधाम प्रतियाम। एतर्ह्यपि जन्मजुषो वयं
त्वदेककार्यव्रतिन एव श‍ृणु मातः आविर्भव भारते अस्मत्सहाया भव ॥

मातर्दुर्गे! सिंहवाहिनि त्रिशूलधारिणि वर्मावृतसुन्दरशरीरे मातः
जयदायिनि…
bottom of page