top of page
दुर्गास्तोत्रम् ०८ सप्तशतीसारभूतदुर्गास्तोत्रम् | Saptashati Sarabhuta durga stotram
सप्तशतीसारभूतदुर्गास्तोत्रम्
श्रीगणेशाय नमः ॥
अथ ध्यानम् ।
यस्या दक्षिणभागके दशभुजा काली कराला स्थिता
यद्वामे च सरस्वती वसुभुजा भाति प्रसन्नानना ।
यत्पृष्ठे मिथुनत्रयं च पुरतो यस्या हरिः सैरिभ-
स्तामष्टादशबाहुमम्बुजगतां लक्ष्मीं स्मरेन्मध्यगाम् ॥ १॥
इति ध्यानम् ॥
लं पृथ्व्यात्मकमर्पयामि रुचिरं गन्धं हमभ्रात्मकं
पुष्पं यं मरुदात्मकं च सुरभिं धूपं विधूतागमम् ।
रं वह्न्यात्मकदपिकं वममृतात्मानं च नैवेद्यकं
मातर्मानसिकान्गृहाण रुचिरान्प…bottom of page
